161 वर्तमानसिद्धिः

मूलम्

वर्तमाननिषेधे च भावित्री विश्वनिह्नुतिः। न ह्यतीतं भविष्यद्वा प्रत्यक्षविषयोस्ति नः॥

मूलम्

वर्तमानभ्रमश्चात्र तत एव न सिद्ध्यति। पौर्वापर्यतिरिक्ता तु दुस्त्यजा वर्तमानता॥

मूलम्

अतीतागामिधीरेव वर्तमानमतिर्यदि। भूतभाविसमस्ताप्त्या न शोकादिसमुद्भनः॥

मूलम्

पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि। त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत्॥

मूलम्

प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते। व्यापारसमुदायोऽसौ विवक्षितफलावधिः॥

मूलम्

तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः। वैवक्षिकमिहान्यच्च वर्तमानत्वमक्षतम्॥

मूलम्

सत्त्वं सद्वर्तमावत्वं कालसंबन्धलक्षणम्। तस्य स्वपरनिर्वाहन्नावस्था प्रसज्यते॥

मूलम्

मानसंबन्धरूपं तु सत्त्वं सर्वगतं मतम्। सत्त्वमित्थमविद्वांसः कालोऽसन्निति बभ्रमुः॥

मूलम्

विशेषलिङ्गाभावेन तल्लिङ्गस्याविशेषतः। एकस्तथा विभुश्चापि सर्वत्र व्यवहारतः॥

मूलम्

आश्रयानुलम्भेन निरंशो नित्य एवच। द्रव्यं चेति स्वीकृतोऽसाविति वैशेषिकाशयः॥