160 क्रियाव्यङ्ग्यः

मूलम्

किंतु क्रियाव्यङ्ग्य इति सौगतेतरपद्धतिः। रहस्यं पक्षयोस्तत्र संक्षिपादिह सूच्यते॥

मूलम्

कालो यदि क्रियाव्यङ्ग्यः क्षणिकत्वं न सिद्ध्यति। क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः॥

मूलम्

इति सिद्धान्तभङ्गस्स्यात् इति सौगतमानसम् । पतितः पतितव्यश्च देशो द्विविध एव हि ॥