159 कालोऽनुमेयः

मूलम्

अथानुमेयसिद्धान्तः संगृह्यात्र प्रदर्श्यते। परापरं चिरं क्षिप्रं युगपत्क्रमिकं त्विति॥

मूलम्

व्यवहाराः पुनः सूर्यपरिस्पन्दनिबन्धनाः। मूर्तैस्साक्षान्न संसर्गः कर्मणामर्कवर्तिनाम्॥

मूलम्

क्रियोपनायकः कश्चित्स्यादेनोभयसंयुतः। परत्वादौ हेतुरेतत्संयोगोऽसमवाय्यसौ॥

मूलम्

नाकाशेनान्यथासिद्धिः अविशेषाद्दिगादिभिः। दिक्कालावीश्वरान्नव्यैरतिरिक्तौ नचेष्यते॥

मूलम्

स एवात्रोपनेता स्यादित्येतेषां हृदि स्थितम्। अप्रत्यक्षत्वमात्रेण नच कालस्य नास्तिता॥

मूलम्

युक्ता पृथिव्यघोभागचन्द्रमः परभागवत्। प्रत्यक्षत्वादुपाधीनां प्रत्यभिज्ञादिसंभवः॥

मूलम्

उपाधयः स्वरूपेण कालश्चेदनवस्थितिः। चिरेणास्तंगतो भानुः शीतांशुः शीघ्रमुद्रतः॥

मूलम्

उदिताविव दृश्येते युगपद्भौमभार्गवौ। इत्यादिव्यवहारेण तदुपाधिगवेषणात्॥

मूलम्

ननु त्वत्कल्पितः कालः स्वत एव क्रमात्मकः। हेत्वन्तराद्वा प्रथमे कार्याणि न कुतस्स्वतः॥

मूलम्

द्वितीये त्वनवस्था स्यात् अन्यस्मादित्यपेक्षणात्। मैवं शुक्लगुणादावप्येवं वक्तुं हि शक्यते॥

मूलम्

स्वतोऽस्य तत्स्वभावत्वे द्रव्यस्य न कुतस्तथा। गुणान्तरस्यापेक्षायामनवस्था प्रसज्यते॥

मूलम्

स्वतः क्रमाद्यात्मकोऽसौ काल इत्यवधार्यते। वाध्वव्यङ्ग्यः कालः एषः वर्तमानविलोपतः॥