मूलम्
सांख्यसौगतचार्वाकैः क्रियते कालनिह्नवः। वैशेषिकादयः कालं मन्यन्ते दुरपह्नवम्॥
टीका
न्या. म.[136]
मूलम्
अनुमेयं विदुः प्रायः परे दार्शनिकाः पुनः। प्रत्यक्षगोचरं प्राहुः इत्थमेषोऽपलप्यते॥
मूलम्
उपाधिरभिर्वा बुद्धिस्थै तादृग्भिर्वाऽथ बुद्धिभिः। व्योमादिभिर्वा विभुभिः कालं निह्नुवते बुधाः॥
मूलम्
नतानद्गृह्यते कालः प्रत्यक्षेण घटादिवत्। चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः॥
मूलम्
नचामुनैव लिङ्गेन कालस्य परिकल्पना। प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत्॥
मूलम्
प्रतिभासातिरेकस्तु कथंचिदुपपत्स्यते। प्रचितां कांचिदाश्रित्य क्रियाक्षणपरंपराम्॥
मूलम्
नचैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः। कालः कल्पयितुं युक्तः क्रियतो नापरो ह्यसौ॥
मूलम्
मुहूर्तयामाहोरात्रमासर्त्वयनवत्यसरैः लोके काल्पनिकैरेव व्यवहाररो भविष्यति॥
मूलम्
यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः। अतीतवर्तमानादिभेदव्यवहृतिः कुतः॥
मूलम्
तादृक्स्वभावसहितः कालो यद्यतिरिच्यते। सिद्धस्यैवहि तादृक्षस्वभावोपगमो वरम्॥