154 तार्किकम्

मूलम्

तेजोऽभावस्तम इति काणादकिरणावलिः। अन्धसाधरणं रूपज्ञानाभावं विदुः परे॥

मूलम्

आरोपितं निरालोके देशे मालिन्यवत्तले। नीलं रूपं तम इति सिद्धान्तः कन्दळीकृतः॥