मूलम्
पृथिव्या एव भेदोऽयं तमस्स्यादितिकेचन। प्रकृतेरेव भेदस्स्यादिति वेदान्तिनो विदुः॥
टीका
स. सि.[1-60]
मूलम्
आलोकेनोत्सारितत्वात् विनष्टत्वादथापिवा। अभिभूतत्वतो वाऽपि तन्मध्ये नोपलभ्यते॥
मूलम्
विषयाच्छादकत्वं तु तमसो नहि युक्तिमत्। तमोव्यवहितालोकस्थितनानार्थदर्शनात्॥
मूलम्
अतो मर्त्यादिदृष्टीनां दृश्यसंबन्धमात्रतः। दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम्॥
मूलम्
वायू रूपेण रहितः स्पर्शेन सहितो यथा। तथा रूपेण सहितं स्पर्शेन रहितं तमः॥