मूलम् तमः खलु चलं नीलं बहुलं विरलं परम्। अपरं च महद्दीर्घं ह्रस्वं चेति प्रतीयते॥ टीका न्या. र.[740] मूलम् कदाचिदपि कस्यापि नैव बाधोऽत्र दृश्यते। प्रभामण्डलवच्चेदं द्रव्यमित्येव वैदिकाः॥