मूलम्
सारूप्यमेव सामान्यं तच्च सादृश्यमित्यपि। इतिचाकृतिवादे हि सांख्यसिद्धान्त ईरितः॥
टीका
श्लोक.[563]
मूलम्
सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते। तेन सारूप्यशब्देन किं पुनः प्रतिपद्यते॥
मूलम्
समानरूपभावश्चेत् जातिस्साऽस्माभिरिष्यते। सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम्॥
मूलम्
नचानयवसामान्यैर्विना सादृश्यकल्पना। सामान्यप्रत्ययोत्पादो न विशेषेषु जायते॥
मूलम्
व्यक्तितश्चातिरेको॥स्य स्यान्न वेति विचारिते। सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमात्रकम्॥
मूलम्
तेन नात्यन्तभिन्नेऽर्थः सारूप्यमिति वर्णितम्। ग्रन्थे विन्ध्यनिवासेन भ्रान्तेः सादृश्यमुच्यते॥
मूलम्
इतिचाकृतिवादन्ते सांख्यानां विन्ध्यवासिनाम्। सामान्यमेव सादृश्यं न तत्त्वान्तरकल्पना॥
मूलम्
तत्त्वतोऽवगत्यैव त्वर्थं सादृश्यलक्षणम्। सामान्यनिह्नवः कैश्चित्कृत इत्युपपादितम्॥
मूलम्
सारूप्यमेव सामान्यमिति युक्तं न सांख्यवत् । विजातीयेषु तद्दृष्टेः गवादिगवयादिषु ॥ इत्याह न्यायमञ्जर्यां शब्दनित्यत्वरूपणे ॥