मूलम्
कुमारिलस्य सिद्धान्ते सादृश्यं नातिरिच्यते । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥
टीका
श्लोक.[438]
मूलम्
एकस्य वस्तुनस्स्वावयवे कर्मणि वा गुणे । समवेतैश्च सामान्यैः योगो येन प्रकारतः ॥
मूलम्
तेनैव च प्रकारेण योगो वस्त्वन्तरस्य तत् । अतस्संबन्धिसामान्ययोगस्सादृश्यमुच्यते ॥
मूलम्
स च योगोऽनुवृत्याख्यः सप्रततिद्वन्द्विलक्षणः । सादृश्यमेव सारूप्यं सामान्यं चेति निर्णयः ॥
मूलम्
सदृशावयवत्वं तु यत्र पद्मदळाक्षिवत् । तत्स्वावयवसामान्यभूम्ना तेषां भविष्यति ॥
मूलम्
एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः । एकैकद्वित्रिसामस्त्यमेदादेतस्य चित्रता ॥
मूलम्
न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया । भूयस्त्ववद्धि जात्यादि सदृशत्वेव दृश्यते ॥
मूलम्
क्वचिच्च भूयसामेतत् क्वचिदल्पीयसामपि । नैतावता विशेषेण वस्तुत्वं तस्य हीयते ॥
मूलम्
सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतः । अनन्ताश्रययोगाच्च न नाशोऽन्यत्र विद्यते ॥
मूलम्
तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते । सर्वस्य ह्याश्रयः कश्चित् अस्ति देशान्तरादिषु ॥
मूलम्
सदृशावयवत्वं तु यत्र नाम प्रतीयते । तदप्यवयवानां स्यात् समानावयवान्तरैः ॥
मूलम्
रूपगन्धरसानां च कस्यचित्तुल्या क्वचित् । नावश्यं सर्वसामान्यात् सादृश्यमुपजायते ॥
मूलम्
धर्माणां नच नानात्वमस्ति चावान्तरस्थितिः । तेन भिन्नमभिन्नं च सादृश्यमिति निर्णयः ॥
मूलम्
सादृश्यं न त्ववस्तु स्यान्नापि तत्त्वान्तरं मतम् । किंतु संबन्धिसामान्ययोग इत्यवधारितम् ॥