मूलम्
सादृश्यनामकः कश्चित्पदार्थस्सर्ववस्तुगः । नानाप्रकारः प्रत्यक्ष इति प्राभाकरा विदुः ॥
टीका
प्रक.[5 प्र.]
मूलम्
तदेव चोपमानस्य प्रमेयमिति कीर्त्यते । दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगौचरम् ॥
मूलम्
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता । गावयस्थितसादृश्यदर्शनं करणं मतम् ॥
मूलम्
फलं गोगतसादृश्यज्ञानमित्यभिधीयते । वेदार्थनिर्णये तस्य चोपयोगोऽवधार्यताम् ॥
मूलम्
सौर्यवाक्ये तु संदृष्टे चौषधिद्रव्यकत्वतः । एकदैवत्यत्वतश्च ह्याग्नेयमुपतिष्ठते ॥
मूलम्
तस्मिंश्चोपमिते तेन तदर्थोऽपि प्रमीयते । सौर्येणाग्नेयवद्ब्रह्मवर्चसं भावयेदिति ॥
मूलम्
एवं शास्त्रोपयोगित्वात् प्रमेयत्वात्पृथक्त्वतः । सादृश्यं नाम सिद्धोऽस्ति पदार्थः सार्वलौकिकः ॥