मूलम्
सर्वेष्वर्थेषु शक्तास्स्युस्सर्वे शब्दाः स्वभावतः । समयान्नियमस्सिद्ध इत्यप्याहुः कुमारिलाः ॥
मूलम्
सर्वाकारपरिच्छेद्यशक्तेर्थे वाचकेऽपि वा । सर्वकारार्थविज्ञानसमर्थे नियमः कृतः ॥
मूलम्
एष सार्वात्म्यसिद्धान्तः नैरात्म्यैकान्तभञ्जकः । पदार्थास्तित्वसिद्धान्तवादिनां प्रायशो मतः ॥
मूलम्
अन्ये दार्शनिकास्तत्र यं कंचिन्मार्गामाश्रिताः । एतावताऽस्तूपरमः बुधा विस्तरभीरवः ॥