144 कुब्जशक्तिः

मूलम्

गुर्वेकदेशिनः व्यक्तौ कुब्जशक्तिं प्रचक्षते । कुब्जत्वं च स्वरूपेण व्यक्तौ शक्तेस्तु हेतुता ॥

टीका

श्लोक.[202]

मूलम्

प्रतिबन्धं विना पक्षधर्मताशक्तिवैभवात् । लिङ्गं लिङ्गिविशेषे तु यथा वै पर्यवस्यति ॥

मूलम्

विनाऽपि संगतिं शक्तिविशेषात्पर्यवस्यति । व्यक्तौ शक्तिरिति प्राहुः कुब्जशक्तिविदो बुधाः ॥

मूलम्

यस्याः कारणता शक्तेः शाब्दबोधे न विद्यते । सा कुब्जा रुचिदत्तस्य मकरन्दकृतो मता ॥