मूलम्
शक्तिर्जातौ व्यक्तिलाभो लक्षणाधीन इष्यते। इति मण्डनसिद्धान्तः गदाधरसुधीरितः॥
टीका
शक्तिवादः.[ ]
मूलम्
जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति। नित्यत्वाल्लक्ष्यमाणायाः व्यक्तेस्ते हि विशेषेण॥
मूलम्
इति पद्यं शक्तिवादे मानत्वेन ह्यनूदितम्। वाक्याधिकरणे श्लोकवार्तिकेऽपिच दृश्यते॥