139 कौमारिलः

मूलम्

अथ भाट्टैः शक्तिरेषा जातावेवाभ्युपेयते। जातिरेवाकृतिस्तेषां व्यक्तिराक्रियते यय॥

मूलम्

जातेश्चोपस्थितिः शक्त्या निर्विकल्पकलक्षणा। आक्षेपाद्वयक्तिलाभास्स्यादाक्षेपोऽप्यनुमा मता॥

मूलम्

स्यादर्थापत्तिरथवा जातिहीनास्तु ये स्वनाः। अखण्डोपाधयस्तेषामर्था नित्या हि तन्मताः॥