136 नैयायिकमतम्

मूलम्

नैयायिकाः पुनः प्राहुः शक्तिं सङ्केतलक्षणाम्। इच्छा हि किल सङ्केतः नित्योऽनित्योऽपिवाऽस्तु सः॥

मूलम्

बौद्धा वैशेषिकाश्चैव सभ्दमानापलापिनः। कथंचिदनुमानन्तर्भावमेते प्रचक्षते॥

मूलम्

स्वाभाविकस्तु संबन्धश्शक्तिर्यद्युपगम्यते। निरुपाधिकसंबन्धो व्याप्तिरेव स निश्चितः॥

मूलम्

शब्दोऽनुमानमेव स्यादतस्सङ्केत इष्यते। अत्र वैदिकसिद्धान्तसमाधिरवगम्यताम्॥

मूलम्

सङ्केतो वाऽतिरिक्तो वा योऽविनाभावरूपतः। ज्ञातुश्चेदनुमैव स्यात् न स्यात् ज्ञातः स्वरूपतः॥

मूलम्

तथात्वप्रतिसंधानाभावेऽप्यनुभवोदयात्। शब्दो मानान्तरं तस्मादन्यथा सर्वविप्लवः॥

मूलम्

अत्र प्राभाकराः प्राहुश्शब्दस्स्याल्लौकिकोऽनुमा। वैदिकस्त्वतिरिक्तोऽस्त्वित्येषाऽर्धजरतीयता॥

मूलम्

सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः। इति न्यायः स्वीकृतः स्यादिति तत्त्वविदो विदुः॥