135 मीमांसकमतम्

मूलम्

शब्दशक्तिर्योग्यताख्या वह्नैरौष्ण्यादिशक्तिवत्। रूपादिज्ञानजनने चक्षुरादेरिवेष्यते॥

मूलम्

स्वाभाविकी सा शब्दानां विज्ञातैर्वार्थकारिणी। यतश्शब्दार्थसंबन्धो बोध्यबोधकतैव सः॥

मूलम्

धूमादीनां तु संबन्धान्तरात् गमकता मता। चेष्टावद्बोधकत्वं स्याद्यदि संकेतमूलकः॥

मूलम्

संकेतकर्तृपुरुषाज्ञानं चात्रास्ति बाधकम्। इति शब्दार्थसंबन्धनित्यतावादिनो विदुः॥

मूलम्

ते च मीमांसकाः पूर्वोत्तरा नव्याश्च शाब्दिकाः। यथात्र वैयातकरणभूषणोक्तं विमृश्यताम्॥

मूलम्

इन्द्रियाणां स्वविषये ह्यनादिर्योग्यता यथा। अनादिर्थैश्शब्दानां संबन्धो योग्यता तथा॥

मूलम्

शाब्दधीजनकत्वाच्छेदकत्वेन वीक्षितः। स्वीकर्तव्यः पुनः शब्दः सङ्केतेनार्थबोधकः॥

मूलम्

अर्थधीजनकत्वेन ज्ञातः शब्दस्स्वभावतः। बोधकस्स्यादिति मते लाघवं परिदृश्यते॥

मूलम्

ग्रह्यत्वं ग्राहकत्वं च द्वे शक्ती अपि तेजसो यथा। तथैव सर्वशब्दानां द्वे शक्ती अपि ते विदुः॥

मूलम्

तस्मात्स्वभावसिद्धान्तो वरं समयकल्पनात्। अत्र नैयायिकमनोरथतत्त्वं विचिन्त्यताम्॥