मूलम्
शब्दशक्तिविशेषे तु रहस्यं बहु विद्यते। तदप्यत्रैव संभिप्य सूचयामः कुतूहलात्॥
मूलम्
शब्देऽनवयवे स्फोटे तदर्थे जातिलक्षणे। अध्यासलक्षणा शक्तिस्संबन्ध इति शाब्दिकाः॥
टीका
श्लोक.[190]
मूलम्
शब्दार्थयोश्च संबन्धं केचित्तादात्म्यलक्षणम्। नित्यं चाभ्युपगच्छन्ति परिणामं तु केचन॥
मूलम्
तद्बिम्बप्रतिबिम्बत्वं कैश्चिदत्र विकल्पयते। एवं तयोर्योगभेदाः स्युर्जगद्ब्रह्मणोरिव॥