मूलम्
कार्यानुकूलमपृथक्सिद्धं यत्तु विशेषणम्। तच्छक्तिशब्दितं सर्वं विष्णुशक्तिरतः स्मृतम्॥
टीका
वे. सं.[11]
मूलम्
न शक्तिः शक्तमात्रं स्यात् सर्वद्वैतप्रसक्तितः। नचापीष्टापत्तिरत्र जयी स्यान्मध्यमागमः॥
मूलम्
इति भेदविदामौपनिषदानां परिष्कृतिः। अभेदविदुषां शक्तितद्वतोः भेदनिह्नवः॥
मूलम्
वटबीजे वृक्षशक्तिः ह्याश्रयान्न विभिद्यते। कया चिदपि युक्त्येति तादात्म्यविभवो ह्यसौ॥
मूलम्
तादात्मयतत्त्वे तत्सर्वं स्पष्टमग्रे निरूप्यते। यत्र चैवौपनिषदा बहुधा हि विशेरते॥