131 शक्तिनिरासफलम्

मूलम्

इदं फलं शक्तिवादे तत्तद्वाद्यभिसंहितम्। करणं चाप्यकरणं क्षणभङ्गस्य कारणम्॥

मूलम्

निरास्थन् वैदिकाश्शक्त्या तार्किकास्सहकारिणा। स्वभाववादावकाशः शक्तिवादे प्रसज्यते॥

मूलम्

इति तार्किकसंत्रासः ह्यर्धस्वाभाविकाः परे। रहस्यमेतदेव स्यात्सामान्याच्छक्तिवादिनाम्॥