130 वैशेषिकमतम्

मूलम्

अत्र वैशेषिकाः प्राहुः शक्तिं नाभ्युपयन्ति ये। संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः॥

टीका

न्या. कु.[1 स्त.]

मूलम्

स्वगुणाः परमाणूनां विशेषाः पाकजादयः। भावो यथा तथाऽभावः कारणं कार्यवन्मतः॥

मूलम्

प्रतिबन्धो विसामग्री तद्धेतुः प्रतिवन्धकः। स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात्॥

टीका

प्र. त.[4-10]

मूलम्

नहि शक्तं कल्पयितुं शक्तिमन्यामतीन्द्रियाम्। एतत्पद्यं पठन्तीत्थं त एते शक्तिवादिनः॥

मूलम्

स्वरूपात् क्वाप्यनुद्यत्तत्सहकार्युपबृंहितात्। किं न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्॥