128 मीमांसकमतम्

मूलम्

अतिरिक्तं पदार्थं तं शक्तिं ये गुरवो विदुः। अनुमानप्रमाणस्य प्रमेयं ते विजानते॥

मूलम्

शक्तेर्गुणत्वमिच्छन्तो गुणलक्षणसंगतेः। अर्थापत्त्याऽधिगम्यां तां प्राहुः कौमारिला यथा॥

मूलम्

यादृशादग्निसंयोगात्सर्वथा दाहदर्शनम्। तादृशादेव मान्त्रादिप्रयोगे तददर्शनात्॥

मूलम्

अग्निसंयोगातिरिक्तं यत्किंचित्कारणान्तरम्। अस्ति दृश्यमदृशयं वेत्येषा साधारणा प्रमा॥

मूलम्

दृश्यादर्शनजन्भावप्रमाणेन विहन्यते। तत्रानयोर्विरोधे सत्यविरोधाय कल्प्यते॥

मूलम्

अदृश्यं कारणं किंतिद्रव्यकर्मगुणाश्रयम्। शक्तित्वसामान्ययोगात्सा शक्तिरिति गीयते॥