127 पदार्थसंख्या

मूलम्

अथैतावन्त एवात्र पदार्थाः न परस्त्विति। तैस्तैः कथं विनिर्णीतः सिद्ध्यसिद्ध्योरयोगतः॥

टीका

त. क.[5-133]

मूलम्

मैवं योऽस्त्येष संसिद्धान्न परस्त्विति कीर्तने। न दोषोऽस्ति प्रवक्तृणां विकल्पानवकाशतः॥

मूलम्

अधिकानधिकाशङ्का सत्येव स्यात्तवापिहि। नैवंचेन्नैव शङ्का वा परिहारोऽपि वा भवेत्॥

मूलम्

तथाचात्रत्यैवकारः नान्ययोगनिषेधकः। एतावत्त्वायोगमेव छिनत्तीत्यवबुद्ध्यताम्॥