मूलम्
सप्तधा वादिनो दृष्टाः सत्त्वासत्त्वादिनिर्णये। सर्वस्यात्राभ्युपमात् सप्तभङ्गनयस्थितिः॥
टीका
प्र. त.[4-15]
मूलम्
एकस्मिन् वस्तुनि प्रश्नवशेनैवाविरोधतः। कल्पना सप्तभङ्ग्येषा या विधिप्रतिषेधयोः॥
मूलम्
वाक्येष्वनैकान्तद्योती गम्यं प्रति विशेषणम्। स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः॥
टीका
आप्तमीमांसा.[ ]
मूलम्
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते॥
मूलम्
क्रमेणोभयवीक्षायां प्रयोगस्समुदायवान्। युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः॥
मूलम्
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते। अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः॥
मूलम्
समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते। तत्सत्त्वैकत्वनित्यत्वसर्वरूपेषु नीयते॥
मूलम्
सर्वेऽपि धर्मः प्रष्टव्यः सप्तधैव व्यवस्थितः। सर्वेऽप्यत्रान्तर्भवन्ति विधयो वेतरेऽपिवा॥
टीका
प्रमेयकमल.[ ]
मूलम्
तृतीयाद्यविवक्षायां अष्टमो भवतीति चेत्। द्विःसत्त्वानुपलम्भेन तृतीयात्मक एव सः॥
मूलम्
तृतीयान्त्याविवक्षाऽपि ह्यसत्त्वाद्वयमूलका। एवं विनिगमाभावमूलशङ्कानिराकृतिः॥
मूलम्
प्रमेयाम्बुजमार्ताण्डे विस्तरस्त्ववगम्यताम्। प्रमाणनयतत्त्वालोकालंकारेऽपि विस्तृतः॥
मूलम्
आप्तमीमांसादिसिद्धः संक्षेपादिह दर्शितः। विरोधस्य विधूत्यैवापक्षपातीति विश्रुतः॥