मूलम्
आत्मन्येव सुखं दुःखमिच्छाद्वेषादिलक्षणम्। यत्सम्यग्दर्शनं ज्ञानं चारित्रं चेति तत्त्रयम्॥
मूलम्
मोक्षमार्गश्चावरणक्षयोपशमकारणम्। श्रद्धा जिनोक्ततत्त्वेषु सम्यग्दर्शनमुच्यते॥
मूलम्
जायते यन्निसर्गेण गुरोरधिगमेन वा। अवबोधस्तमात्राहुः सम्यज्ज्ञानं मनीषिणः॥
मूलम्
सर्वथाऽवद्ययोगानां त्यागाश्चारित्रमुच्यते। कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा॥
मूलम्
पूरयन्ति गलन्तीति पुद्गलाः परमाणवः। वर्णगन्धरसस्पर्शगुणवद्द्रव्यलक्षणाः॥
मूलम्
अनन्तदेशे द्रव्येऽस्तिकायशब्दः प्रयुज्यते । पञ्चास्तिकायाः कीर्त्यन्ते तेऽन्येऽणोः काललक्षणात् ॥