मूलम्
परमाणुषु वाय्वादिविभागो नाभ्युपेयते । सामान्यं द्विविधं तिर्यगूर्ध्वताशाब्दितम्॥
टीका
प्र. त.[5-3]
मूलम्
तुल्या परिणतिर्या तु प्रतिव्यक्ति प्रदृश्यते । सामान्यं तत्तिर्यगिति तद्धि गोत्वादिलक्षणम् ॥
मूलम्
पूर्वापरपरीणामसाधारण्येन यत्पुनः। तदूर्ध्वताख्यं सामान्यं कटकादिषु काञ्चनम् ॥
मूलम्
विशेषोऽपि द्विरूपस्स्याद्गुणपर्यायभेदतः। सहभावी तु यो धर्मः स गुणः परिकीर्त्यते॥
मूलम्
यथा चात्मनि विज्ञानव्यक्तिशक्त्यादिलक्षणः। क्रमभावी तु यो धर्मः स पर्यायः प्रकीर्त्यते॥