मूलम्
जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एव च । आकाश इति षड्द्रव्यं अद्रव्यं च द्विधा मतम् ॥
मूलम्
गुणः पर्याय इति तत्स्वरूपं स्फुटमग्रतः । अनागतपरीणामावस्थं द्रव्यमितीर्यते ॥
मूलम्
तद्वर्तमानपर्यायं भाव इत्यभिधीयते । द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि॥
मूलम्
तानि द्रव्याणि निर्दिष्टान्यद्रव्यं तु तदाश्रितम् । पर्येत्युत्पत्तिनाशौ यः पर्याय इतीर्यते॥
मूलम्
ताथागतैर्हि पर्यायः पारमार्थिक इष्यते । तदाधारं त्रिकालस्थं द्रव्यं नाभ्युपगगम्यते॥
मूलम्
तदाहि प्रत्यभिज्ञादेर्विरोधस्स्याद्दुरुद्धरः । अनिरोधमनुत्पादं जगत्स्यात्पुञ्जलक्षणम्॥