मूलम्
चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम्। तत्र बोधात्मको जीवोऽजीवोऽबोधात्मको मतः॥
मूलम्
क्षायिकश्चौपशमिकः मिश्रश्चौदयिकस्तथा। पारिणामिक इत्येते भावाः पञ्चात्मनो मताः॥
मूलम्
बद्धमुक्तविभेदेन ते जीवाः द्विविधा मताः। न कश्चिन्नित्यसंसारी नित्यमुक्तो न कश्चन॥
मूलम्
तथैव चिदचिद्भिन्नमीशतत्त्वं च नेष्यते। अचिच्च पुद्गलाकाशकालादिविविधं मतम्॥
मूलम्
ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन। ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः॥
मूलम्
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम्। प्रत्यक्षं च परोक्षं द्विधा मेयविनिश्चयात्॥