121 प्रमेयोद्देशः

मूलम्

अथार्हतानां सिद्धान्ते प्रमेयपरिचिन्तना । प्रायो वैशेषिकान्मीमांसकांश्चाप्यनुवर्तते ॥

मूलम्

द्विधा च पञ्चधा चैव षोढा चापि सप्तधा । नवधाऽपि विवक्षायाः भेदात्तत्वं विविञ्चते ॥

मूलम्

प्रवादास्स्युर्मत्सरिणः परेऽन्योन्यविपक्षतः । समयोऽपक्षपातोऽसौ स्यादशेषविशेषतः ॥

टीका

स. सं.[3 द.]

मूलम्

सर्वज्ञो जितरागादिदोषः त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽर्हन्परमेश्वरः ॥