मूलम्
सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥
मूलम्
विष्णुनैव समस्तस्य समासव्यासयोगतः ॥
मूलम्
य एतत्परतन्त्रं तु सर्वमेव हरेस्सदा । वशमित्येव जानाति संसारान्मुच्यते हि सः ॥
मूलम्
घातयन्ति हि राजानो राजाहमिति वादिनः । ददात्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥
मूलम्
मुक्तानामाश्रयो विष्णुः अधिकाधिपतिस्तथा । तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः ॥
मूलम्
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥
टीका
स. सं.[5 द.]
मूलम्
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः । सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥
मूलम्
न च नाशं प्रयात्येषः न चासौ भ्रान्तिकल्पितः । कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ॥
मूलम्
महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव विष्णोरिच्छा प्रकीर्त्यते ॥
मूलम्
तदिच्छयैव सकलं सर्वदा परिवर्तते । इति सिद्धान्तसारांशः शेषोऽन्यो ग्रन्थविस्तरः ॥