119 विशेषांशः

मूलम्

एके द्रव्यं गुणः कर्म सामान्यं सविशेषकम् । अभावश्शक्तिसादृश्ये अंशोंऽशीति विदुर्दश ॥

मूलम्

भेदहीने वस्तुनि या भेदबुद्धिनियामिका । शक्तिर्विशेषसंज्ञा सा मता सर्वपदार्थगा ॥

मूलम्

विशेषेण विभागोऽयं दशधाऽनेन कल्पते । व्यवहारव्यवस्था हि सर्वाऽनेनोपपाद्यते ॥

मूलम्

विशेषणां तु वैशिष्ट्यं शक्तिशक्तनयात् स्थितम् । भिन्नाश्च भिन्नधर्माश्च पदार्थास्सकला अपि ॥

टीका

अनुव्याख्यानम्.[ ]

मूलम्

नानुवृत्ता जातिरपि द्वैतकाष्ठेयमुच्यते । प्राक्प्रध्वंससदाभेदात् अभावस्त्रिविधो मतः ॥

मूलम्

भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् ।