117 तत्त्वम्

मूलम्

आनन्दतीर्थसिद्धान्ते तत्त्वोद्देशो विबुद्ध्यताम् । स्वतन्त्रमस्वतन्त्रं च प्रमेयं द्विविधं मतम् ॥

टीका

तत्त्वसंख्यानम्.[ ]

मूलम्

स्वतन्त्रो भगवान् विष्णुः निर्दोषोऽखिलसद्गुणः । द्विविधं परतन्त्रं सायात् भावाभावविभेदतः ॥

मूलम्

चेतनोऽचेतनश्चेति भावोऽपि द्विविधो मतः । नित्यमुक्ता मुक्तियोग्या मुक्त्ययोग्या इति त्रिधा ॥

मूलम्

चेतनोऽचेतनश्चेति भावोऽपि द्विविधो मतः । नित्यमुक्ता मुक्तियोग्या मुक्त्ययोग्या इति त्रिधा ॥

मूलम्

चेतनोऽचेतनस्तु स्यात् नित्योऽनित्य इति तद्विधा । नित्याः स्युः प्रकृतिः कालः वेदश्चोति त्रिधा मताः ॥

मूलम्

असंसृष्टं च संसृष्टं इत्यनित्यो द्विधा मतः । महदाद्यमसंसृष्टम् अण्डं संसृष्टमिष्यते ॥