116 वैशिष्ट्यम्

मूलम्

सामानाधिकरण्योक्तस्यैक्यस्यानुपपत्तितः । विवर्तवादिनः केचित् तेऽविद्यावादिनोऽभवन् ॥

मूलम्

उपाधिवादिनः केचित्परिणामं समाश्रिताः । भेदाभेदं वदन्त्यन्ये विशिष्टैक्यमिमे विदुः ॥

टीका

वे. सं.[135]

मूलम्

इदं तु तत्त्वविज्ञानं तदुपासनसाधनम् । याथात्म्यज्ञानपूर्वस्तु व्यवहारोऽनुपप्लवः ॥

मूलम्

कविधीचित्रवच्चात्रानन्ता सिद्धान्तसन्ततिः । तत्त्वालोकश्शास्त्रजन्यः समस्तां लोप्तुमर्हति ॥

मूलम्

भक्त्या परमया वापि प्रपत्त्या वा परः पुमान् । प्राप्योऽसौ नान्यथा प्राप्य इति सिद्धान्तसङ्ग्रहः ॥