मूलम्
विशिष्टाद्वैतसिद्धान्ते लिख्यते तत्त्वसङ्ग्रहः । द्रव्याद्रव्यादिभेदेन द्विविधं तत्त्वमिष्यते ॥
टीका
स. सि.[1-6]
मूलम्
द्रव्यं द्वेधा विभक्तं स्यात् ज़डं चाजडमित्यपि । प्राच्यमव्यक्तकालौ स्तः ह्यन्त्यं प्रत्यक्परागिति ॥
मूलम्
जीवेश्वरविभेदेन प्रत्यक् द्विविधमिष्यते । मतिर्नित्यविभूतिश्चेत्युच्यते द्विविधं पराक् ॥
मूलम्
एवं द्रव्यं षड्विधं स्यात् अद्रव्यं दशधा मतम् । शब्दादयः पञ्च सत्त्वं रजस्तम इति त्रयम् ॥
मूलम्
संयोगशक्तिरिति च द्वयं दशविधं ततः । संयोग एव कर्म स्यात् संस्थानं जातिरिष्यते ॥
मूलम्
समवायोऽपृथक्सिद्धिः सिद्धिः ज्ञप्तिस्थिती मते । भावान्तरमभावः स्यात् जातिर्भेद इतीर्यते ॥
मूलम्
इतरत्त्वन्यथासिद्धं द्रव्यलक्षणया धिया । अचिच्चिदीशभेदेन केचित् त्रेधा विविञ्चते ॥
मूलम्
भोग्यं भोक्ता नियन्तेति तस्यैव विवृतिस्त्वियम् । सर्वथेष्टं फलमिदं देहात्मेश्वरनिर्णयः ॥
मूलम्
तत्राव्यक्तं महदहङ्कारभूतादिभेदतः । चतुर्विंशतिधं कालः दिनमासादिभेदतः ॥
मूलम्
विभागवान् ईश्वरस्तु भवेदेकस्सदातनः । सर्वेश्वरः स्वातिरिक्तसर्ववस्तुविलक्षणः ॥
मूलम्
द्विलिङ्गो द्विविभूतिश्च परिपूर्णः परः पुमान् । जीवः पुनः नित्यमुक्तबद्धभेदादनेकधा ॥
मूलम्
मतिः प्रत्यात्मनियता नैकधा च विकारिणी । नित्यभूतिरनन्ता स्यात् परस्तात् तमसः सदा ॥
मूलम्
ईशान्तर्यामिकं कृत्स्नम् ईशितुः कार्यमित्यपि ।