113 भट्टनयः

मूलम्

निर्विशेषविदां मानं मेयं स्याद्व्यावहारिकम् । व्यवहारानुरोधेन यथावदुपगम्यते ॥

मूलम्

यद्यत्र न्यायसिद्धान्तानुरोधे सोऽवकल्पते । तदिष्यतेऽथवा सांख्यानुरोधे सोऽपि चेष्यते ॥

मूलम्

यद्वा भाट्टादिसिद्धान्तस्वीकारस्स्वरसो भवेत् । व्यवहारस्तदा भाट्टनयोऽपि परिगृह्यते ॥

मूलम्

तस्मादद्वैतसिद्धान्ते यःकश्चिदपि वा भवेत् । व्यवहारव्यवस्थायै न विशेषोऽत्र वस्तुतः ॥

मूलम्

तथापि विदुषां प्रायो ह्यभ्यासो वैदिके नये । व्यवहारे भाट्टसांख्यसङ्ग्रहो वासनावशात् ॥