मूलम्
विवर्तसिद्ध्यै चाविद्या नाम दोषः प्रकल्प्यते । अर्थक्रियाकारितया स भावोऽज्ञानलक्षणः ॥
मूलम्
तच्चाज्ञानं नाग्रहणं न मिथ्याज्ञानमप्यथ । नापि तत्संस्कारभेदः किन्तु त्रयविलक्षणः ॥
टीका
पञ्चपादिकाविवरणम्.[ ]
मूलम्
अहमज्ञो मां न जानामीत्यध्यक्षावभासतः । अज्ञानसिद्धिः नाभावः धर्मिज्ञानाद्यपेक्षणात् ॥
मूलम्
विवादाध्यासितं ज्ञानं स्याद्वस्त्वन्तरपूर्वकम् । अर्थप्रकाशकत्वाद्यदेवं तद्वै तथेक्ष्यते ॥
मूलम्
यथा प्राथमिकी दीपप्रभा स्यात् ध्वान्तपूर्विका । स्वप्रागभावातिरिक्तं विषयावरणं तथा । स्वनिवर्त्यं स्वदेशस्थं चेति वस्तु विशेष्यते ॥
मूलम्
एतादृगनुमानैश्च भावाज्ञानं प्रसाध्यते । अविद्याबोधकं शास्त्रं बहुलं चोपलभ्यते ॥ तेनाज्ञानेन विश्वस्य रचना परिक-ल्पते ॥
मूलम्
अङ्गीकृता च प्रायेण मानमेयप्रकल्पना । व्यवहारे भट्टनयादिति सर्वत्र विश्रुतम् ॥