मूलम्
ब्रह्मैवानाद्यनिर्वाच्याऽविद्यारूपोपधानतः । नामरूपप्रपञ्चाख्यप्रभेदेन विवर्तते ॥
मूलम्
यथा च मुखमेवैकं कृपाणमणिभेदतः । प्रतिबिम्बविभेदेन विविधं भुवि वर्तते ॥
टीका
न्या.क.[287]
मूलम्
प्रत्यासः परिणामश्च विवर्तश्चेति च त्रिधा । प्रवादस्तत्र चाध्यास एव प्रत्यासलक्षणः ॥
मूलम्
यथा च स्फाटिकी बुद्धिः लाक्षारुणिमगोचरा । यथा वा वनबुद्धिः स्यात्किंशुकादिसमूहिषु ॥
मूलम्
यथा व शशशृङ्गादौ शब्दसत्त्वप्रकल्पना । यथा पदार्थेष्वेकत्वं स्फोटो वाक्यार्थ इष्यते ॥
मूलम्
तथा चाध्यास एष स्यादनेकं यत्र चैकधा । परिणामस्सुवर्णस्य मकुटाद्याकृतिः स्फुटा ॥
मूलम्
विवर्तो विविधा वृत्तिः यत्र चैकमनेकधा । एकं बिम्बमनेकेषूपाधिषु प्रतिबिम्बते ॥
मूलम्
एवं वाचस्पतेर्न्यायकणिकायां निरूपितः । भेदो विधिविवेकस्य व्याख्यायाम् अधुना पुनः ॥
मूलम्
समसत्ताककार्यं यत्परिणामस्स ईर्यते । कार्यं विषमसत्ताकं विवर्त इति गीयते ॥