110 प्रक्रियान्तरम्

मूलम्

इयमेका प्रक्रियोक्ताऽपराऽपि निशम्यताम् । अर्थो द्विधस्स्वतस्सिद्धः परतस्सिद्ध इत्यपि ॥

मूलम्

आद्य आत्मा त्वनात्माऽन्यः स च द्विविध इष्यते । साक्षिभास्यो वृत्त्यपेक्षसाक्षिभास्य इतीतरः ॥

मूलम्

मनस्सुखादिराद्यः स्य़ात् द्वितीयोऽपि द्विधो मतः । मनोवृत्तिमपेक्षैकोऽविद्यावृत्तिमनन्तरः ॥

मूलम्

घटादिः प्रथमस्तत्र सुषुप्त्यादिरनन्तरः । एवं शिक्षा पदार्थानां समग्राहि समासतः ॥