109 प्रमेयनिश्चयः

मूलम्

अथाद्वैतविदामेष प्रमेयपरिनिश्चयः । पदार्थो द्विविधः तत्त्वमतत्त्वं चेति सङ्ग्रहात् ॥

टीका

अर्थसंग्रहः.[ ]

मूलम्

तत्त्वं ब्रह्मैकमेव स्यात् अतत्त्वं द्विविधं मतम् । अनिर्वाच्यमसच्चेति प्रथमं द्विविधं पुनः ॥

मूलम्

व्यावहारिकमाद्यं स्यात् द्वितीयं प्रातिभासिकम् । आद्यं चतुर्विधं प्राहुः प्रकृतिर्विकृतिस्तथा ॥

मूलम्

उभयात्मकमन्य्तस्यात् उदासीनं तुरीयकम् । आद्यत्रयं द्रव्यमुक्तं उदासीनं गुणः क्रिया ॥

मूलम्

जातिसंख्या च शक्तिश्चेत्यनन्तविधमुच्यते । असच्च शशशृङ्गादिः विकल्पविषयस्तु सः ॥

मूलम्

विकल्पो निस्स्वभावस्य वस्तुनस्स्ववभासकः । प्रतीतिस्सस्वभावस्य वस्तुनस्त्विति निर्णयः ॥