108 परिणामवादः

मूलम्

तत्र भास्करभाष्यस्थं वचनं त्ववगम्यताम् ॥

टीका

भा. भा.[16]

मूलम्

एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते । नानात्वं तस्य तत्पूर्वं कस्माद्भेदोऽपि नेष्यते? ॥

टीका

भा. भा.[99]

मूलम्

यत्प्रमाणैः परिच्छिन्नं अविरुद्धं हि तत्तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते ॥

मूलम्

प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोधे च प्रमाणं कारणं मतम् ॥

मूलम्

एकं रूपं प्रतीतत्वात् द्विरूपं च तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥

मूलम्

नरभेदान्न हि ज्ञेया वस्तुनस्सदसत्त्वता । नहि रूपमनन्धानां सत्यमन्धेष्वसद्भवेत् ॥

मूलम्

प्रपञ्चास्तित्वमज्ञस्य तस्यैव ज्ञानिनः पुनः । स एव किल नास्तीति कथं सत्यं वचो भवेत् ॥

मूलम्

नहि द्विचन्द्रः प्रागासीत् पश्चान्नास्तीति युज्यते । द्विचन्द्रज्ञानतुल्यत्वं प्रत्यक्षादेस्त्वपेक्ष्यते ॥

मूलम्

अतो भिन्नाभिन्नरूपं ब्रह्मेत्येवावधार्यते । न गृह्यते च करणदोषः तिमिरवत् स्वतः ॥

मूलम्

कार्यरूपेण नानात्वं अभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥

मूलम्

अप्रच्युतस्वभावस्य शक्तिविक्षेपलक्षणः । परिणामः यथा तन्तुनाभस्य पटतन्तुवत् ॥

टीका

भा. भा.[96]

मूलम्

आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । इत्युच्यते कैश्चिदत्र प्रत्युक्तिरियमुच्यते ॥

मूलम्

स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥

मूलम्

पटरूपं घटे नास्ति घटरूपं पटे नहि । इति देशान्तराभावः अन्योन्याभाव उच्यते ॥

मूलम्

एतन्मूलमनेकान्तवादस्यापीति निर्णयः । कार्यकारणभावस्य मीमांसायां तु विस्तरः ॥