107 तत्प्रभेदाः

मूलम्

एतं पन्थानमाश्रित्य मध्ये भास्करयादवाः । आसन् भाष्यकृतोऽद्वैतविशिष्टाद्वैतभाष्ययोः ॥

मूलम्

तत्र जीवो ब्रह्मणोंऽशः विष्फुलिङ्गवदिष्यते । पृथिव्युपष्टम्भभेदात् तेजः खण्डमिवेक्ष्यते ॥

टीका

भा. भा.[134]

मूलम्

तत्र भास्करसिद्धान्तः परिणाम इति श्रुतः । भेदाभेदः स्वभावेन स्याज्जगद्ब्रह्मणोरिह ॥

मूलम्

जीवेशयोः पुनर्भेदस्स्यादुपाधिविभेदतः । स्वाभाविको मोक्षदशाकालिकोऽभेद इष्यते ॥

मूलम्

श्रीमद्यादवसिद्धान्तः भेदाभेद इति श्रुतः । स्वभावात् ब्रह्मजगतोः तथैव ब्रह्मजीवयोः ॥

मूलम्

अथापि भेदाभेदस्तु द्वाभ्यामप्युररीकृतः ।