106 ब्रह्मपरिणामः

मूलम्

अथ भेदाभेदवादे प्राचां सिद्धान्त उच्यते । महासमुद्रस्थानीयं परं ब्रह्माक्षरं मतम् ॥

टीका

बृ. उ. शं.[5-8-12]

मूलम्

तदप्रचलितावस्थं ईषत्प्रचलितं यदा । तदन्तर्यामिसंज्ञं स्यात् अत्यन्तचलितं यदा ॥

मूलम्

तदा क्षेत्रज्ञसंज्ञं स्यात् इति त्रेधा व्यवस्थितम् । पञ्चावस्था अपि प्राहुः भूतसंस्थानभेदतः ॥

मूलम्

पिण्डो जातिर्विराट् सूत्रं दैवमित्युक्तलक्षणाः । भूतमात्रामहदहमिन्द्रियापरनामकाः ॥

मूलम्

अष्टावस्था इमाः भर्तृप्रपञ्चादिभिरीरिताः । एतेऽवस्थावादिनस्स्युः केचिदुत्पत्तिवादिनः ॥

मूलम्

विकारवादिनः केचित् अन्ये स्युः शक्तिवादिनः । शक्तिवादिन एवैते प्रायोऽभिव्यक्तिवादिनः ॥

मूलम्

जरन्मायावादिन इत्येत एव मता बुधैः । बृहदारण्यकव्याख्याविदितं मतमीदृशम् ॥