मूलम्
द्रव्याज्जातिगुणादीनां नात्यन्तं भेद इष्यते । किन्तु तादात्म्यमेतस्मादनेकान्तः यथोच्यते ॥
मूलम्
जात्याद्यर्थान्तरं यस्मादत्द्रूपेऽपि वस्तुनि । भवत्यध्यस्य धीस्तस्मान्मृगतृष्णादिभिस्समा ॥
टीका
श्लोक.[177]
मूलम्
नैतत्, अश्वादिबुद्धीनामध्यारोपाद्यसम्भवात् । स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः ॥
मूलम्
यदि ह्येकान्ततो भिन्नं विशेष्यत्स्याद्विशेषणम् । स्वानुरूपां सदा बुद्धिं विशेष्ये जनयेत्कथम् ॥
मूलम्
न तु जात्यातिनिर्मुक्तं वस्तु दृष्टं कदाचन । तद्विमोकेन वा तानि लाक्षादिस्फटिकदिवत् ॥
मूलम्
न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना । नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता ॥
मूलम्
अत्यन्तभिन्नताऽस्माभिर्नैव कस्यचिदिष्यते । सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥
टीका
श्लोक.[297]
मूलम्
उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । इति कौमारिलैकान्तः शिष्टमग्रे निरूप्यते ॥