104 विशेषांशः

मूलम्

प्रत्यक्षाणि हि सर्वाणि द्रव्याण्यात्मा तथाऽऽन्तरः । दृश्यमानातिरिक्तं तु द्रव्यं भाट्टैर्न मन्यते ॥

मूलम्

स्वयंप्रकाशमात्मानं कालाकाशमनांसि तु । अप्रत्यक्षाणीति वेत्ति प्रभाकरगुरुः पुनः ॥