103 प्रमेयोद्देशः

मूलम्

द्रव्यं गुणस्तथा कर्म जातिश्चाभाव इत्यपि । भट्टपादस्य सिद्धान्ते प्रमेयं पञ्चधा मतम् ॥

टीका

मानमेयोदयः.[ ]

मूलम्

क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च । तमो वर्ण इति द्रव्यमेकादशविधं मतम् ॥

मूलम्

रूपं गन्धो रसः स्पर्शः संख्यासंयोगशक्तयः । विभागः परिमाणं च परताऽपरता ध्वनिः ॥

मूलम्

पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एव च । बुद्धिस्सुखं दुःखमिच्छा द्वेषः संस्कार इत्यपि ॥

मूलम्

प्राकट्यं च प्रयत्नश्च चतुर्विंशतिधा गुणाः । कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् ॥

मूलम्

जात्यभावौ तार्किकाद्यैः कीर्तितावेव सम्मतौ । शिष्टं विशेषवादेषु स्पष्टमग्रे भविष्यति ॥