मूलम्
द्रव्यसामान्यवृत्तित्वे सामान्यगुणतेष्यते । प्रत्येकद्रव्यवृत्तित्वे विशषगुणता मता ॥
मूलम्
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः । तेषामाश्रयभेदेन भेदो नाभ्युपगम्यते ॥
मूलम्
अथ कर्मपदार्थं तु सूक्ष्ममाहुरतीन्द्रियम् । अनुमेयं च संयोगाद्विभागाद्वाऽर्ककर्मवत् ॥
मूलम्
सामान्यं न्यायमतवत् शक्तिस्सर्वपदार्थगा । नानाविधा च सादृश्यमनेकं सर्ववस्तुगम् ॥
मूलम्
समवायोऽनेकविधोऽप्यनित्योप्यक्षगोचरः । संख्यापि सर्वगा ज्ञेया सर्वेषा विस्तरोऽग्रतः ॥