101 प्रमेयोद्देशः

मूलम्

द्रव्यं गुणस्तथा कर्म सामान्यं शक्तिरेव च । सादृश्यं समवायश्च संख्या चेत्यष्टधा स्थितम् ॥

मूलम्

प्रमेयमिति सिद्धान्तः प्रभाकरगुरोर्मतः । क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ॥

मूलम्

द्रव्याणि नवधा तेजोहीनाधिकरणं तमः । रूपं गन्धो रसः स्पर्शः वियोगो योग एव च ॥

मूलम्

पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एव च । बुद्धिस्सुखं दुःखमिच्छा द्वेषः यत्नश्च संस्क्रिया ॥

मूलम्

परिमाणं च परताऽपरता शब्द एव च । इत्येकविंशतिविधो गुण इत्यवगम्यते ॥