100 मुक्तिः

मूलम्

मुक्तिर्नामात्र कैवल्यं मतं चिन्मात्रलक्षणम् । व्यावर्तते मात्रचात्र स्वात्मसंवेदनापि हि ॥

मूलम्

स्वात्मानन्दानुभवनं कैवल्य इति केचन । सांख्याः प्राहुः तदप्यन्यैः कौटस्थ्यान्नाभ्युपेयते ॥

मूलम्

वैशेषिकादिसिद्धान्त संसिद्धादात्मनो जडात् । वैलक्षण्यं मतं त्वेतच्चिद्रूपत्मिहात्मनः ॥

मूलम्

आत्मा न स्वप्रकाशात्मा प्रकाशात्मैव केवलः । इति पातञ्जलाः सांख्याः प्राहुर्निर्णयमात्मनाम् ॥