99 सर्वमुक्तिः

मूलम्

ननु सर्वे च पुरुषाः मुच्यन्ते वाथ किं न वा । आद्ये प्रधानस्य परीणामस्सावधिको भवेत् ॥

टीका

पा. भा.[4-31]

मूलम्

द्वितीये तत्त्वविज्ञानाविस्रम्भ इति चेन्न तत् । अस्ति हि त्रिविधः प्रश्नः तदुत्तरविभागतः ॥

मूलम्

एकान्तवचनीयश्चावचनीयस्तथेव च । विभज्य वचनीयश्चेत्यत्रोदाहरणं क्रमात् ॥

मूलम्

जन्तुर्जातः स्थिरः कश्चित्तिष्ठतीत्यनुयोगतः । सर्वो मरिष्यतीत्यत्र त्वेकान्तवचनीयता ॥

मूलम्

समाप्यते किं प्रधानपरिणामक्रमस्त्विति । प्रश्नोऽयमुत्तरानर्होऽनवधारणशक्तितः ॥

मूलम्

मुच्यन्ते किं पुनस्सर्वे इत्यत्र त्विदमुत्तरम् । तत्त्वख्यातिर्यस्य पुंसः मुच्यतेऽसौ न चेतरः ॥

मूलम्

विभज्य वचनीयोऽसौ तृतीयः प्रश्न उच्यते । प्रायस्सर्वत्र शङ्कानां विभागेनैवमुत्तरम् ॥