मूलम्
समाः गुणाः प्रधानं स्यात् समत्वादेकतत्त्वता । विवर्तवादोऽन्यथा स्यादनेकं चैकमित्यसौ ॥
मूलम्
तथा चाङ्गाङ्गिभावेन परिणामेन चैकता । तत्त्वं च महदादेः स्यात् सत्त्वाङ्गित्वे महान् भवेत् ॥
मूलम्
रजःप्रधानान्महतोऽहङ्कारस्य समुद्भवः । तमःप्रधानान्महतो जातं तन्मात्रपञ्चकम् ॥ अहङ्कारात्सात्त्विकात्स्यात् तद्बुद्धीन्द्रियपञ्चकम् ॥
मूलम्
तस्मात्तु राजसात्कर्मेन्द्रियाणां स्यात्तु पञ्चकम् । प्रादुर्भूतं मनश्चैवाहङ्कारादुभयात्मकात् ॥
मूलम्
अङ्गि चेच्छब्दतन्मात्रम् आकाशस्य समुद्भवः । एवं स्पर्शाद्यङ्गितायां पवनादिसमुद्भवः ॥
मूलम्
बाह्योऽर्थः त्रिगुणः चित्तं यथैव त्रिगुणं तथा । धर्मादिस्सहकारी स्यात् तेनार्थो ज्ञायते यदा ॥
मूलम्
तदुद्भवाभिभवतः व्यज्यते बहुरूपतः । ततस्सुखं दुःखमिति विचित्रं जगदुच्यते ॥