96 सेश्वरसांख्यम्

मूलम्

पुरुषार्थोऽनागतोऽसौ गुणानां तु प्रवर्तकः । मतो निरीश्वरे सांख्ये सेश्वरे त्वीश्वरो मतः ॥

मूलम्

धर्मादिकं तु प्रकृतिकार्यत्वान्न प्रवर्तकम् । किन्त्वावरणभेदेऽस्य सम्मता हि निमित्तता ॥

मूलम्

अधर्मावरणे तत्र धर्मेण विनिवारिते । जात्यन्तरपरीणामः प्रकृत्यापूरपूर्वकः ॥